लक्ष्मी प्रार्थना
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि।
हरिप्रिय
नमस्तुभ्यं नमस्तुभ्यं दयानिधे।।
पद्मालये
नमस्तुभ्यं नमस्तुभ्यं च सर्वदे।
सर्वभूतहितार्थाय
वसुवष्टिं सदा कुरू।।
नमः क्षीरार्णवसुते
नमस्त्रैलोक्यधारिणि।
वसुवृष्टे
नमस्तुभ्यं रक्ष मां शरणागतम्।।
विष्णप्रिये
नमस्तुभ्यं नमस्तुभ्यं जगद्धिते।
आर्तिहन्त्रि
नमस्तुभ्यं समृद्धि कुरू मे सदा।।
त्राहि त्राहि
महालक्ष्मि त्राहि त्राहि सुरेश्वरि।
त्राहि त्राहि
जगन्मातर्दारिद्रयात्त्राहि वेगतः।।
त्वमेव जननी
लक्ष्मी पिता लक्ष्मी त्वमेव च।
भ्राता त्वं च सखा
लक्ष्मी विद्या लक्ष्मी त्वमेव च।।
No comments:
Post a Comment